एवं काष्ठदण्डे लम्बमानं कूर्मं पौराः अपश्यन्। पश्चाद् अधावन् अवदन् च- "हंहो! महदाश्चर्यम्। हंसाभ्यां सह कूर्मोऽपि उड्डीयते।" कश्चिद् वदति- “यद्ययं कूर्मः कथमपि निपतति तदा अत्रैव पक्त्वा खादिष्यामि।" अपरः अवदत्- “सरस्तीरे दग्ध्वा खादिष्यामि"। अन्यः अकथयत्- "गृहं नीत्वा भक्षयिष्यामि” इति। तेषां तद् वचनं श्रुत्वा कूर्मः क्रुद्धः जातः। मित्राभ्यां दत्तं वचनं विस्मृत्य सः अवदत्-"यूयं भस्म खादत।" तत्क्षणमेव कूर्मः दण्डात् भूमौ पतितः। पौरैः सः मारितः। अत एवोक्तम्-
सुहृदां हितकामानां वाक्यं यो नाभिनन्दति ।
स कूर्म इव दुर्बुद्धिः काष्ठाद् भ्रष्टो विनश्यति॥

Pls translate it in hindi.​

Answers & Comments


Add an Answer


Please enter comments
Please enter your name.
Please enter the correct email address.
You must agree before submitting.

Helpful Social

Copyright © 2024 EHUB.TIPS team's - All rights reserved.